वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡र्च꣢त꣣ प्रा꣡र्च꣢ता नरः꣣ प्रि꣡य꣢मेधासो꣣ अ꣡र्च꣢त । अ꣡र्च꣢न्तु पुत्र꣣का꣢ उ꣣त꣢꣫ पुर꣣मि꣢द्धृ꣣꣬ष्ण्व꣢꣯र्चत ॥३६२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अर्चत प्रार्चता नरः प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत ॥३६२॥

मन्त्र उच्चारण
पद पाठ

अ꣡र्च꣢꣯त । प्र । अ꣣र्चत । नरः । प्रि꣡य꣢꣯मेधासः । प्रि꣡य꣢꣯ । मे꣣धासः । अ꣡र्च꣢꣯त । अ꣡र्च꣢꣯न्तु । पु꣣त्रकाः꣢ । पु꣣त् । त्रकाः꣢ । उ꣣त꣢ । पु꣡र꣢꣯म् । इत् । धृ꣣ष्णु꣢ । अ꣣र्चत ॥३६२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 362 | (कौथोम) 4 » 2 » 3 » 3 | (रानायाणीय) 4 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में मनुष्यों को इन्द्र की अर्चनार्थ प्रेरित किया गया है।

पदार्थान्वयभाषाः -

हे (नरः) नेतृत्वशक्ति से युक्त स्त्री-पुरुषो ! तुम (अर्चत) पूजा करो। हे (प्रियमेधासः) बुद्धिप्रेमी जनो ! (अर्चत) पूजा करो। (पुत्रकाः उत) तुम्हारे पुत्र-पुत्री भी (अर्चन्तु) पूजा करें। (पुरम् इत्) पूर्ति ही करनेवाले, (धृष्णु) अन्तःशत्रुओं तथा विघ्नों के धर्षणकर्ता इन्द्र जगदीश्वर की (अर्चत) पूजा करो ॥३॥ इस मन्त्र में ‘अर्चत’ की पुनरुक्ति अधिकता, निरन्तरता तथा अवश्यकर्तव्यता को द्योतित करने के लिए है ॥३॥

भावार्थभाषाः -

सब स्त्रीपुरुषों को चाहिए कि अपने पुत्र-पुत्री आदि परिवार सहित प्रातः-सायं नियम से परमेश्वर की पूजा किया करें। पूजा किया हुआ परमेश्वर पूजकों के मार्ग में आये शत्रुओं तथा विघ्नों को हटाकर उन्हें धर्म, अर्थ, काम और मोक्ष से भरपूर करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मानवाः इन्द्रस्यार्चनार्थं प्रेर्यन्ते।

पदार्थान्वयभाषाः -

हे (नरः) नेतृत्वशक्तियुक्ताः स्त्रीपुरुषाः ! यूयम् (अर्चत) सपर्यत, (प्र अर्चत) प्रकर्षेण सपर्यत, हे (प्रियमेधासः) प्रियमनीषाः जनाः ! प्रियमेधः प्रिया अस्य मेधा। निरु० ३।१७। (अर्चत) सपर्यत। (पुत्रकाः उत) युष्माकं पुत्रपुत्र्योऽपि। पुत्रकाश्च पुत्रिकाश्चेत्येकशेषे पुत्रकाः इति। (अर्चन्तु) सपर्यन्तु। (पुरम्२ इत्) पूरकम् एव, न तु रेचकम्। पृणातीति पूः तम्, पॄ पालनपूरणयोरिति धातोः क्विपि रूपम्। (धृष्णु) अन्तःशत्रूणां विघ्नानां वा धर्षणशीलम् इन्द्रं जगदीश्वरम्। धृष्णुम् इति प्राप्ते, ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेर्लुक्। (अर्चत) सपर्यत। अत्र ‘अर्चत’ इति पुनरुक्तिरतिशयस्य, सातत्यस्य, अवश्यकर्तव्यत्वस्य च द्योतनार्था ॥३॥

भावार्थभाषाः -

सर्वैः स्त्रीपुरुषैः पुत्रपुत्र्यादिपरिजनसहितैः प्रातःसायं नियमेन परमेश्वरोऽर्चनीयः। अर्चितः सोऽर्चकानां मार्गे समागतान् शत्रून् विघ्नांश्च निराकृत्य तान् धर्मार्थकाममोक्षैः पूरयति ॥३॥

टिप्पणी: १. ऋ० ८।६९।८, अथ० २०।९२।५ उभयत्र ‘नरः’ इति नास्ति, ‘पुरमित्’ इत्यत्र च ‘पुरं न’ इति पाठः। २. पुरमित् पुरमेव, स्तोतॄणामभिमतस्य पूरकम्—इति सा०। पुरम् इत् धृष्णु, इच्छब्द इवशब्दस्यार्थे, पुरमिव धृष्णु। यथा कश्चित् पुमान् धृष्णुं दृढम् अभिभवनं परकीयानां सेनानाम् अर्चति तद्वदर्चत इत्यर्थः—इति वि०। पुरमित् पुरमिव धृष्णु धर्षकं शत्रूणाम् इन्द्रम् अर्चत—इति भ०।